
धर्मशास्त्रस्य सामान्यज्ञानम् - The Dharmashastra an Introductory Analysis
1. धर्मशास्त्रस्य स्वरूपम्
1.1. धर्मशब्दार्थः
1.2. धर्मस्वरुपम्
1.3. धर्मस्य प्रमाणानि
1.4. धर्मस्य भेदाः
1.5. धर्मशास्त्रस्य स्वरुपम्
1.6. धर्मशास्त्रस्य श्रेणीविभागः
2. आचारव्यवस्था
2.1. आचारलक्षणम्
2.2. आचरमहत्त्वम्
2.3. आचरभेदाः
3. धर्मशास्त्रकाराणां संक्षिप्तपरिचयः
3.1. सूत्रकाराणां परिचयः
3.2. स्मृतिकाराणां परिचयः
3.3. निबन्धकाराणां परिचयः
3.4. भाष्यकाराणां परिचयः
4. स्मृतिकालीनगुरुशिष्यपरम्परा
4.1.स्मृतिषु गुरुशिष्ययोः कर्त्तव्यम्
5. ब्रह्मचारीधर्माः
5.1. ब्रह्मचारिणामध्ययनविधिः
5.2. अनुपनीतधर्माः
5.3. शिष्यशासनप्रकारः
6. साम्प्रतिकसमाजे धर्मशास्त्रस्य प्रासङ्गिकता
- Teacher: Dr.Manoj Kumar Swain

मीमांसाप्रवेशः इत्याख्यः पाठ्यक्रमः विशेषतः अनधीतमीमांसाछात्राणां कृते निर्मितः वर्तते । मीमांसा नाम वेदार्थविचारः । स च वेदार्थनिर्णयार्थः । तस्य च प्रयोजनं यथावदेव साङ्गस्य प्रधानस्य अनुष्ठानद्वारा स्वर्गादिप्राप्तिरेव । मीमांसायां तावत् द्वदशाध्यायाः वर्तन्ते । तत्र च प्रत्येकस्मिन् अध्याये विभिन्नाः विशिष्टाः विषयाः निरूपिताः । तत्र च प्रतिपाद्यानामंशानां सरळया रीत्या अवगमनं तु कष्टमेव । अतः अनधीतमीमांसाशास्त्रस्यापि यथा सुखेन बोधः स्यात् तथा मीमांसायां प्रतिपाद्यस्यार्थस्य सुखेन बोधनार्थमेव अयं मीमांसाप्रवेशः इत्याख्यः पाठ्यक्रमः निर्मितः ।
अयं च पाठ्यक्रमः पञ्चसप्ताहात्मकः । अस्मिन् पाठ्यक्रमे पञ्चविंशतिपाठाः वर्तन्ते । अस्य पाठ्यक्रमस्य समीचीनतया अध्ययनेन व्युत्पित्सुः मीमांसाशास्त्रस्य सामान्यप्रवेशं प्राप्नोति । अतः जिज्ञासवः अस्य पाठ्यक्रमस्य महदुपयोगं प्राप्स्यन्ति इति मे अभिप्रायः ।
- Teacher: Govinda Hegde