मीमांसाप्रवेशः इत्याख्यः पाठ्यक्रमः विशेषतः अनधीतमीमांसाछात्राणां कृते निर्मितः वर्तते । मीमांसा नाम वेदार्थविचारः । स च वेदार्थनिर्णयार्थः । तस्य च प्रयोजनं यथावदेव साङ्गस्य प्रधानस्य अनुष्ठानद्वारा स्वर्गादिप्राप्तिरेव । मीमांसायां तावत् द्वदशाध्यायाः वर्तन्ते । तत्र च प्रत्येकस्मिन् अध्याये विभिन्नाः विशिष्टाः विषयाः निरूपिताः । तत्र च प्रतिपाद्यानामंशानां सरळया रीत्या अवगमनं तु कष्टमेव । अतः अनधीतमीमांसाशास्त्रस्यापि यथा सुखेन बोधः स्यात् तथा मीमांसायां प्रतिपाद्यस्यार्थस्य सुखेन बोधनार्थमेव अयं मीमांसाप्रवेशः इत्याख्यः पाठ्यक्रमः निर्मितः ।

अयं च पाठ्यक्रमः पञ्चसप्ताहात्मकः । अस्मिन् पाठ्यक्रमे पञ्चविंशतिपाठाः वर्तन्ते । अस्य पाठ्यक्रमस्य समीचीनतया अध्ययनेन व्युत्पित्सुः मीमांसाशास्त्रस्य सामान्यप्रवेशं प्राप्नोति । अतः जिज्ञासवः अस्य पाठ्यक्रमस्य महदुपयोगं प्राप्स्यन्ति इति मे अभिप्रायः ।