अष्टमङ्गलप्रश्नस्वरूपम् - प्रश्नप्रकारेषु मूर्धन्यस्थानं भजते अयं प्रश्नक्रमः । उद्दिष्टस्य सर्वं त्रैकालिकं ज्ञानम् अनेन अवाप्तुं शक्यते । अस्य अष्टमङ्गलम् इति नाम कुतः आगतम् इति सर्वेषां संशयः भवत्येव । अष्टमङ्गले लग्नज्ञानार्थं स्वर्णस्य आवश्यकता वर्तते । स्वर्णवशात् आरूढस्य ज्ञानं प्राप्यते । तदर्थं स्वर्णन्यासः कर्तव्यः । स्वर्णन्याससमये एव चक्रस्य वामपार्श्वे उपविष्टः दैवज्ञः अभिमन्त्रिताः गुर्वनुगृहीताः अष्टोत्तरशतं वराटिकाः स्थानत्रये विभज्य स्थापयति । ततः पुनः तेभ्यः त्रिभ्यः स्थानेभ्यः अष्टाष्टवराटिकानां शोधनं क्रियते । अनया प्रक्रियया एव अस्य प्रश्नस्य अष्टमङ्गलप्रश्नः इति नाम आगतम् । तथापि अस्मिन् प्रश्ने राशिचक्रस्य पुरतः अष्टमङ्गलद्रव्याणि स्थापयन्ति । तथापि तत्कारणेन अष्टमङ्गलम् इति नाम नागतं वर्तते । सामान्यतः महादोषेषु सस्तु अस्य प्रश्नस्य अपेक्षा भवति । विशिष्य देवालयेषु दोषाः सम्प्राप्ताश्चेत् तेषां दोषाणां कारण-परिहारादिकं ज्ञातुं देवालयस्य तन्त्रिमुख्याः जनाः अष्टमङ्गलप्रश्नं कुर्वन्ति । 

एकेनैव ज्यौतिषिकेन अष्टमङ्गलप्रश्ने निर्णयः न क्रियते । अष्टमङ्गलप्रश्नार्थं नैके योग्याः ज्यौतिषिकाः अपेक्षिताः । अष्टमङ्गलप्रश्नस्य प्रक्रिया एकस्मिन्नेव दिवसे अपि न समाप्यते । दिवसत्रयपर्यन्तं क्वचित् मासपर्यन्तं मासत्रयपर्यन्तमपि प्रचलति । अन्येषां प्रश्नानामपेक्षया अष्टमङ्गलप्रश्नस्य बहुप्राधान्यं विद्यते । प्रश्नेषु गहनतमः प्रश्नः अयमेव । अष्टमङ्गलप्रश्ने दोषादिकं दृष्ट्वा दैवज्ञैः यः निर्णयः प्रदत्तः तदनुसारं देवालयस्य जीर्णोद्धार-ब्रह्मकलश-बिम्बस्थापनादिपरिहारः कर्तव्यः भवति । अष्टमङ्गलप्रश्नविषये प्रश्नमार्गकारेण द्वितीयाध्यायात् षोडशाध्यायपर्यन्तं निरूपितम् ।

प्रथम अध्याय