पाणिनिव्याकरणदृष्ट्या लट्-लिट्-लुट्-लृट्-लेट्-लोट्-लङ्-लिङ्-लृङ्-भेदेन दशलकाराः भवन्ति। एषु पञ्चमो लेट्लकारः छन्दोमात्रगोचरः, अतः वैदिकप्रयोगार्हः। अन्ये सर्वेऽपि लौकिकाः लोकप्रयोगार्हाः भवन्ति। एषु लडादयः टितः षट्, लङादयश्च ङितः चत्वारस्सन्ति। तत्र ङिल्लकारेष्वपि लिङ्लकारः विधिनिमन्त्रणादिषु आशिषि च प्रयुक्तत्वात् विधिलिङ्-आशीर्लिङ् इति भेदेन विभज्यते।नागेशानुसारं लकारार्थाः-  ''सङ्ख्याविशेष-कालविशेष-कारकविशेष-भावाः लादेशमात्रस्यार्थाः'' इति।